top of page

ज्ञानवर्धकः ग्रामः


एतस्मिन् ग्रामे एका शाला अस्ति। तस्यां अनेके चतुराः छात्राः आसन्। परन्तु संज्ञानं वर्धयितुं प्रयत्नमेव न कुर्वन्ति स्म। तेषां चिन्तनम् आसीत् यत् ते पूर्वम् एव सर्वं जानन्ति इति। तदानीम् विवेकः नाम बालकः तस्यां शालायां पठनार्थम् अन्यात् ग्रामात् आगतवान्। सः बुद्धिमान् आसीत्। तथापि एतस्मिन् ग्रामे सः नूतनः अतः अत्र नियमान् न जानाति स्म। प्रतिदिनं सः अन्यैः सहछात्रैः सह चर्चां कर्तुं प्रयत्नं करोति स्म। कोऽपि तस्य प्रश्नस्य उत्तरं दातुं सिद्धः नासीत्। तदा एकं सहछात्रम् अपृच्छत् भोः! किमर्थम् अत्र कोऽपि अन्यैः सह ज्ञानस्य संविभागं न करोति इति। सः बालकः अवदत् पूर्वम् अस्माकं ग्रामे एकः धनिकः आसीत् ।सः चिन्तितवान् ग्रामे सर्वे अपि समानरीत्या ऐश्वर्यम् अनुभवन्तु किमर्थं केचन दरिद्राः केचन धनिकाः इति। तस्य समीपे स्थितस्य ऐश्वर्यस्य सर्वेः सह संविभागम् अकरोत्। दानं स्वीकृतवन्तः जनाः तु धनिकाः अभवन् परन्तु यः धनिकः आसीत् सः दारिद्र्यम् अनुभवति स्म। तदा सः मतिभ्रमेण पीडितः भूत्वा सर्वत्र अटति स्म। तं दृष्ट्वा अत्रस्थ जनाः यत् किमपि वा भवतु संविभागेन वयं दरिद्राः भवामः अचिन्तयन् इति अवदत्। तत् श्रुत्वा विवेकः अचिन्तयन्त् - कीदृशाः जनाः धनस्य संविभागं ज्ञानस्य संविभागेन सह तुलनां कुर्युः अतः कथञ्चित् तेषाम् अज्ञानस्य निर्मूलनं कुर्यात् इति अचिन्तयत्।


विवेकः तस्य गुरुणा सह मेलितुं तस्य पूर्वतनं ग्रामम् अगच्छत्। तत्र गुरुं सर्वम् उक्तवान् तेषाम् अज्ञानस्य कथं निवारणं कुर्यात् इति च अपृच्छत्। गुरुः उपायम् उपदिष्टवान्। गुरोः उपायम् अनुसृत्य सः पुनः प्रस्तुतस्य निवासस्य ग्रामं गत्वा एकस्य वृक्षस्य अधः द्वे उत्पीटिके स्थापितवान्। एकायां धनं स्थापितवान् अपरयां पुस्तकानि स्थापितवान्। यत्र धनम् आसीत् तत्र जनाः आगच्छन्ति यथोचितं धनं स्वीकुर्वन्ति निर्गच्छन्ति च। परस्परं संभाषणम् एव नासीत्। यत्र पुस्तकानि आसन् तत्र तु न्यूनाः जनाः एव आसन् परन्तु तत्र बहुकालं स्थित्वा पुस्तकेषु लिखितान् विषयान् पठित्वा सन्देहस्य निवारणार्थम् विवेकेन सह सम्भाषणं कृतवन्तः च। जनद्वयस्य सम्भाषणं श्रोतुम् एकं एकं कृत्वा अनेकेषां समावेषः अभवत्। चर्चा अपि घनज्ञानपूर्वकम् आसीत्। जनानां ज्ञानस्य मार्गेण परस्परम् अभिमुखपरिचयः अभवत् तथा एव बुद्धिकौशलस्य वर्धनमपि अभवत्। एतस्य ज्ञानस्य केवलम् अत्र वृक्षस्य अधः एव न परन्तु तेषां जीवने बहुषु स्थलेषु उपयोगं कृत्वा अत्यधिकं धनं सम्पादयन्ति स्म। किञ्चित् एव काले तत्र चरग्रन्थालयम् विवेकः स्थापितवान्। ततः तस्य ग्रामस्य नाम ज्ञानवर्धकः इति प्रसिद्धः जातः।


अपरस्याः उत्पीकायाः समीपे आगताः जनाः धनस्य व्ययं कृत्वा पुनः धनं स्वीकर्तुं तत्र आगतवन्तः परन्तु निराशाः। ते अपि पुनः विचिन्त्य विवेकस्य पुरतः अतिष्ठन्। तदा विवेकः अवदत् धनस्य संविभागेन कस्यापि वर्धनं न भवति तत्स्थाने यदि ज्ञानस्य संविभागं कुर्मः चेत् ज्ञानवर्धनेन धनसम्पादनं कथं भवेत् इति ज्ञात्वा तस्य योग्यरूपेण व्ययः भवेत् इति अपि जानीमः। केवलं तद् न धनस्य संविभक्तेन कोऽपि दरिद्रः भवितुं शक्नोति किन्तु ज्ञानस्य संविभागेन इतोऽपि अधिकाः विभवाः एव भवन्ति न तु दरिद्राः।


अतः ज्ञानस्य संविभागं कुर्युः।संविभागेन प्रसारेण च स्वीयवर्धनं च भवेताम्। ज्ञानेन एव अस्माकं प्रगतिः। धनस्य संविभागस्य अपेक्षया ज्ञानस्य संविभागः श्रेयस्करः।



न हि ज्ञानेनसदृसं पवित्रमिह विद्यते।

तत्स्वयं योगसिद्धः कालेनात्मनि विन्दति॥


इति भगवद्गीता अपि कथयति।


जयतु भारतम्। जयतु संस्कृतम्।



38 views2 comments
Post: Blog2_Post
bottom of page